|
|
 |
 |
|
|
५ उद्योगपर्व.jpg)
॥ श्रीः ॥
5.196. अध्यायः 196
Mahabharata - Udyoga Parva - Chapter Topics
युधिष्ठिरेणापि त्रेधाविभज्य स्वसेनानां प्रेषणम् ॥ 1 ॥

Mahabharata - Udyoga Parva - Chapter Text
वैशम्पायन उवाच। 5-196-0x(3947)(38586)
तथैव राजा कौन्तेयो धर्मपुत्रो युधिष्ठिरः।
धृष्टद्युम्नमुखान्वीरांश्चोदयामास भारत ॥ 5-196-1(38587)
चेदिकाशिकरूशानां नेतारं दृढविक्रमम् ।
सेनापतिममित्रघ्नं धृष्टकेतुमथादिशत् ॥ 5-196-2(38588)
विराटं द्रुपदं चैव युयुधानं शिखण्डिनम् ।
पाञ्चाल्यौ च महेष्वासौ युधामन्यूत्तमौजसौ ॥ 5-196-3(38589)
ते शूराश्चित्रवर्माणस्तप्तकुण्डलधारिणः।
आज्यावसिक्ता ज्वलिता धिष्ण्येष्विव हुताशनाः ॥ 5-196-4(38590)
अशोभन्त महेष्वासा ग्रहाः प्रज्वलिता इव ।
अथ सैन्यं यथायोगं पूजयित्वा नरर्षभः ॥ 5-196-5(38591)
दिदेश तान्यनीकानि प्रयाणाय महीपतिः।
तेषां युधिष्ठिरो राजा ससैन्यानां महात्मनाम् ॥ 5-196-6(38592)
व्यादिदेश सबाह्यानां भक्ष्यभोज्यमनुत्तमम् ।
स गजाश्वमनुष्याणां ये च शिल्पोपजीविनः ॥ 5-196-7(38593)
अभिमन्युं बृहन्तं च द्रौपदेयांश्च सर्वशः ।
धृष्टद्युम्नमुखानेतान्प्राहिणोत्पाण्डुनन्दनः ॥ 5-196-8(38594)
भीमं च युयुधानं च पाण्डवं च धनंजयम्।
द्वितीयं प्रेषयामास बलस्कन्धं युधिष्ठिरः ॥ 5-196-9(38595)
भाण्डं समारोपयतां चरतां संप्रधावताम् ।
हृष्टानां तत्र योधानां शब्दो दिवमिवास्पशत् ॥ 5-196-10(38596)
स्वयमेव ततः पश्चाद्विराटद्रपदान्वितः।
अथापरैर्महीपालैः सह प्रायान्महीपतिः ॥ 5-196-11(38597)
भीमधन्वायती सेना धृष्टद्युम्नेन पालिता।
गङ्गेव पूर्णा स्तिमिता स्यन्दमाना व्यदृश्यत ॥ 5-196-12(38598)
ततः पुनरनीकानि न्ययोजयत बुद्धिमान्।
मोहयन्धृतराष्ट्रस्य पुत्राणां बुद्धिनिश्चयम् ॥ 5-196-13(38599)
द्रौपदेयान्महेष्वासानभिमन्युं च पाण्डवः ।
नकुलं सहदेवं च सर्वांश्चैव प्रभद्रकान् ॥ 5-196-14(38600)
दश चाश्वसहस्राणि द्विसहस्त्राणि दन्तिनाम् ।
अयुतं च पदातीनां रथाः पञ्चशतं तथा ॥ 5-196-15(38601)
भीमसेनस्य दुर्धर्षं प्रथमं प्रादिशद्बलम् ।
मध्यमे च विराटं च जयत्सेनं च पाण्डवः ॥ 5-196-16(38602)
महारथौ च पाञ्चाल्यौ युधामन्यूत्तमौजसौ ।
वीर्यवन्तौ महात्मानौ युधामन्यूत्तमौजसौ ॥ 5-196-17(38603)
अन्वयातां तदा मध्ये वासुदेवधनञ्जयौ ।
`तौ दृष्ट्वा पृथिवीपाला नष्टमित्येव मेनिरे।
अन्तरिक्षगताः सर्वे देवाः सेन्द्रपुरोगमाः '॥ 5-196-18(38604)
बभूवुरतिसंरब्धाः कृतप्रहरणा नराः।
तेषां विंशतिसाहस्रा हयाः शूरैरधिष्ठिताः ।
पञ्च नागसहस्राणि रथवंशाश्च सर्वशः ॥ 5-196-19(38605)
पदातयश्च ये शूराः कार्मुकासिगदाधराः ।
सहस्रशोऽन्वयुः पश्चादग्रतश्च सहस्रशः ॥ 5-196-20(38606)
युधिष्ठिरो यत्र सैन्ये स्वयमेव बलार्णवे ।
तत्र ते पृथिवीपाला भूयिष्ठं पर्यवस्थिताः ॥ 5-196-21(38607)
तत्र नागसहस्राणि हयानामयुतानि च ।
तथा रथसहस्राणि पदातीनां च भारत ॥ 5-196-22(38608)
चेकितानः स्वसैन्येन महता पार्थिवर्षभ ।
धृष्टकेतुश्च चेदीनां प्रणेता पार्थिवो ययौ ॥ 5-196-23(38609)
सात्यकिश्च महेष्वासो वृष्णीनां प्रवरो रथः ।
वृतः शतसहस्रेण रथानां प्रमुदन्बली ॥ 5-196-24(38610)
क्षत्रदेवब्रह्मदेवौ रथस्थौ पुरुषर्षभौ ।
जघनं पालयन्तौ च पृष्ठतोऽनुप्रजग्मतुः ॥ 5-196-25(38611)
शकटापणवेशाश्च यानं युग्यं च सर्वशः ।
तत्र नागसहस्राणि हयानामयुतानि च ।
फल्गु सर्वं कलत्रं च यत्किंचित्कृशदुर्बलम् ॥ 5-196-26(38612)
कोशसञ्चयवाहांश्च कोष्ठागारं तथैव च।
गजानीकेन संगृह्य शनैः प्रायाद्युधिष्ठिरः ॥ 5-196-27(38613)
तमन्वयात्सत्यधृतिः सौचित्तिर्युद्धदुर्मदः।
श्रेणिमान्वसुदानश्च पुत्रः काश्यस्य वा विभुः ॥ 5-196-28(38614)
रथा विंशतिसाहस्रा ये तेषामनुयायिनः ।
हयानां दश कोट्यश्च महतां किंकिणीकिनाम् ॥ 5-196-29(38615)
गजा विंशतिसाहस्रा ईषादन्ताः प्रहारिणः।
कुलीना भिन्नकरटा मेघा इव विसर्पिणः ॥ 5-196-30(38616)
षष्टिर्नागसहस्राणि दशान्यानि च भारत ।
युधिष्ठिरस्य यान्यासन्युधि सेना महात्मनः ॥ 5-196-31(38617)
क्षरन्त इव जीमूताः प्रभिन्नकरटामुखाः ।
राजानमन्वयुः पश्चाच्चलन्त इव पर्वताः ॥ 5-196-32(38618)
एवं तस्य बलं भीमं कुन्तीपुत्रस्य धीमतः ।
यदाश्रित्याथ युयुधे धार्तराष्ट्रं सुयोधनम् ॥ 5-196-33(38619)
ततोऽन्ये शतशः पश्चात्सहस्रायुतशो नराः।
नर्दन्तः प्रययुस्तेषाणनीकानि सहस्रशः ॥ 5-196-34(38620)
तत्र भेरीसहस्राणि शङ्खानामयुतानि च ।
न्यवादयन्त संहृष्टाः सहस्रायुतशो नराः ॥ ॥ 5-196-35(38621)
इति श्रीमन्महाभारते शतसाहस्र्यां संहितायां वैयासिक्यां उद्योगपर्वणि अम्बोपाख्यानपर्वणि षण्णवत्यधिकशततमोऽध्यायः ॥ ॥ समाप्तमम्बोपाख्यानपर्व ॥ उद्योगपर्व च ॥ अस्यानन्तरं भीष्मपर्व भविष्यति तस्ययमाद्य श्लोकः । जनमेजय उवाच। कथं युयुधिरे वीराः कुरुपाण्डवसोमकाः। पार्थिवाः सुमहात्मानो नानादेशसमागताः ॥ इदं उद्योगपर्व कुंभघोणस्थेन टीo आर्o कृष्णाचार्येण टीo आर्o व्यासाचार्येण च मुंबय्यां निर्णयसागरमुद्रायन्त्रे मुद्रापितम् । शकाब्दाः 1828 सन 1907
Mahabharata - Udyoga Parva - Chapter Footnotes
5-196-12 भीमधन्वायनीति झo पाठे भीमधन्वानः अयन्ते प्रचरन्त्यस्यामिति भीमधन्वायनी ॥ 5-196-19 कृतप्रहरणाः `कृतयुद्धाः ' ॥ 5-196-26 शकटा भाण्डवन्ति अनांसि। आपणो वणिस्कमुदायः। वेशो वेश्याजनः। यानं युद्धयोग्यं वाहनम्। युग्यं केवलं वाहनम्। फल्गु बालादिकम्। कलत्रं स्त्र्यादिकम् ॥ 5-196-27 कोशो धनम्। कोष्ठो धान्यादिसामग्री। संगृह्य एकीकृत्य ॥ 5-196-


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|